दाडिमफलम्
दाडिमफलम् Punica granatum | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Punica granatum L. | ||||||||||||||||
पर्यायपदानि | ||||||||||||||||
Linnaeus, 1758 | ||||||||||||||||
एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।
सस्य स्वरुपम्
[सम्पादयतु]दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।
दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।
उपयोगः
[सम्पादयतु]- दाहिमस्य मूलं जलेन धृष्ट्वा ललाटे लेपयन्ति चेत् श्रमेण उष्णतायाः कारणेन वा जाता शिरोवेदना शाम्यति ।
- दाहिमस्य मूलं, जीरकं,कुस्तुम्बरीबीजं, पाटलस्य मूलं च पूर्वदिने जले स्थापयित्वा अनन्तरदिने संशोध्य स्वीकृते जले शर्करां मिश्रीकृत्य पिबलि चेत् धर्मस्य पिटकाः न्यूनाः भवन्ति ।
पर्णम्
[सम्पादयतु]- दाडिमस्य पर्णानि पिष्ट्वा लघु (शकलाः) खण्डाः निर्मातव्याः । रात्रौ निद्रासमये जेत्रस्य उपरि संस्थाप्य वस्त्रेण बद्धव्यम् । तेन जेत्रस्य रक्तता अपगच्छति ।
- दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।
चित्रवीथिका
[सम्पादयतु]-
दाडिमवृक्षः
-
दाडिमबीजानि
-
उद्घाटितं दाडिमफलम्
-
flower of pomegranate in visakhapatnam